(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.70. अध्यायः 070
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-70-0x(4145)(41781)
अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा।
भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥ 6-70-1(41782)
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत ।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥ 6-70-2(41783)
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये ।
अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ॥ 6-70-3(41784)
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ॥ 6-70-4(41785)
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक ।
अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः ॥ 6-70-5(41786)
शिरासं पात्यमानानां समरे निशितैः शरैः।
अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ ॥ 6-70-6(41787)
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥ 6-70-7(41788)
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥ 6-70-8(41789)
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः ।
मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥ 6-70-9(41790)
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते ।
आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुंधराः ॥ 6-70-10(41791)
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः ।
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥ 6-70-11(41792)
स संप्रहारस्तुमुलःक कटुकः शोणितोदकः।
प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥ 6-70-12(41793)
तस्मिन्महाभये घोरे तुमुले रोमहर्षणे।
ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥ 6-70-13(41794)
आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः ।
तावकानां परेषां च संयुगे भरतर्षभ ॥ 6-70-14(41795)
संरब्धानां च वीराणां धीराणाममितौजसाम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ॥ 6-70-15(41796)
उत्थितेषु कबन्धेषु सर्वतः शोमितोदके।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः ॥ 6-70-16(41797)
शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः ।
निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ॥ 6-70-17(41798)
बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ 6-70-18(41799)
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः।
तावकानां परेषां च योधा भरतसत्तम ॥ 6-70-19(41800)
वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत।
गदानां परिघाणां च हस्तानां चोरुभिः सह ॥ 6-70-20(41801)
पादानां भूषणानां च केयूराणां च सङ्घशः।
राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ॥ 6-70-21(41802)
अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् ।
सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशांपते ॥ 6-70-22(41803)
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।
जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते ॥ 6-70-23(41804)
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि।
बहुधा समसञ्जन्त आयसैः परिघैरिव ॥ 6-70-24(41805)
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशांपते ।
अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह ॥ 6-70-25(41806)
पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले।
घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर ॥ 6-70-26(41807)
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक ।
अन्योन्यमभिधावन्तः परस्परवधैषिणः ॥ 6-70-27(41808)
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः।
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥ 6-70-28(41809)
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्।
भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत ॥ ॥ 6-70-29(41810)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे सप्ततितमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.